OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 17, 2017

 कुलभूषणस्य मृत्युदण्डनम्।  
द्वादशपाक्किस्थानपौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यनीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरोधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।                       


भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः- स्वमी आदित्यानन्दमहाराजः
भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः भवति इति स्वमी आदित्यानन्दमहाराजः उक्तवान् । तृश्माश्शिवपुरे चेम्मण्टायाम् प्रवृत्ते नाचिकेतसम्  इति बालानां शास्त्रशिबिरस्य उद्घाटने एव एवम् अवदत् ।  मातृभाषा इव परिपावना एव एषा इति मत्वा अग्रे गन्तव्यम् इति च उद्घुष्टवान्। विश्वसंस्कृतप्रतिष्ठानस्य शिक्षणप्रमुखः डा. ई एन्  ईश्वरः आमुखभाषणम् कृतवान् । डा. शङ्करनारायणः अध्यक्षः आसीत्। पि जयकुमार् स्वागतम् वन्दना जे कृतज्ञतां च उक्तवन्तौ। चिताः40 बालाः शिबिरे शास्त्राध्ययनं कुर्वन्ति। एप्रिल् 28 अस्य समापनम्।

एकादशे वयसि द्वादशकक्ष्यां विजित्य
  हैद्राबाद्> द्वादशकक्ष्यातः विजयं प्राप्य एकादशवयस्क: अगस्त्य जैस्वालः। हैदराबादस्य सेन्ट् मेरीस् जूणियर् कलाशालातः एव अस्य विजयः । प्रतिशतं त्रिषष्ठि अङ्काः तेन प्राप्ताः। तेलङ्काना राज्ये लघुवयसि +2 परीक्षायाम् उत्तीर्णतां प्राप्तवत्सु एषः एव लघुवयस्क:। भिषग्वरः भावितव्यः इति अस्य बालकस्य अभिलाषः।

अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनाः हताः।
कोलम्बो> श्रीलड़्कायाः आस्थाननगर्यां कोलम्बेयां त्रिशतोन्नतं अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनानां मरणम् अभवत्। अनेकाः क्षतबाधिताः च अभवन्। पार्श्ववर्तिनः १४५ गृहाः शिथिलाः अभवन्। कठोरं शब्दं श्रुत्वा धाविताः रक्षां प्रापुः। मरणसंख्या पुनरपि वर्धिष्यति इति अस्ति निगमनम्।
श्रीलड़्काराष्ट्रस्य परम्परागत नववत्सराघोषवेलायामस्ति दुरव्तमिदम्। वर्षेभ्यः मालिन्य क्षेपणेन पर्वतीभूयक्षेत्रे अग्निबाधया दुरन्तमिदं जातम्।आरक्षकाः, सेना , सामान्यजनाः च सेवातर्मसु प्रवर्तन्ते।

महाराष्ट्रायां सप्त विद्यार्थिन: अध्यापकश्च निमज्जने मृता: ।।       
मुम्बै> कर्णाटकस्वदेशिन: सप्त विद्यार्थिन: एक: अध्यापकश्च महाराष्ट्रायां निमज्जनेन मृता: । बलगामत: आगता: यन्त्रज्ञा: विद्यार्थिन: एव सिन्धुदुर्गमण्डले वैरि समुद्रतीरे निमज्य  मृतवन्त: ।मृतेषु तिस्र: विद्यार्थिन्यश्च अन्तर्भवन्ति । अपघातात् त्रीन् विद्यार्थीन् रक्षितवन्त: ।बलगामस्थात् मरात्ता यन्त्रकलाशालाया: ५० विद्यार्थिनां गण: अत्र विनोदयात्रार्थमागता: ।समुद्रमवतीर्य स्नानसमये एते शक्तासु वीचीषु बद्धा: अभवन् । विद्यार्थीन् प्रति अपघातसूचना: दत्ता: किन्तु ते तत् समुल्लड्घ्य  समुद्रमवातरन्निति आरक्षका: सूचितवन्त: । समुद्रे मीनग्राहका: धीवरा: त्रीन् रक्षितवन्त: । इतरेषां मृतदेहान् तीरं प्रापितवन्तश्च धीवरा: । रक्षां प्राप्ता: छात्रा: तु गुरुतरावस्थायां वर्तन्ते इति च आरक्षका: उक्तवन्त: ।

लोकपितामही दिवड्गता ।।
 रोम> लोके एव अधिकवयस्का स्त्री तथा लोकपितामहीति ख्याता एम्मा मोरानो ( ११७ )  दिवड्गता ।१० शतके जीवनं कृता एका व्यक्ति:  एम्मा शनिवासरे मृत्युवशं गता ।द्वयोरपि लोकमहायुद्धयो: साक्षिभूता सा अतिदैर्घ्यतरां  जीवनयात्रामेव पूर्तीकृतवती। त्रिषु राज्येषु जीवनकालं  यापितवती एम्मा इट्टलीदेशे अन्तिमकालमुषितवती।