OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 4, 2017

सोमालियायाः सागरतस्करैः भारतस्य भारनौका बलात्कारेण ग्रहीता
दुबाय् > येमन् देशतः दुबाय् नगरं प्रति गता भारनौका सोमालियायाः सागरतस्करैः बलेन ग्राहीता। कौषर् नाम नौका एव तस्करैः ग्रहीतायां नौकायाम् एकादशः कर्मकराः सन्ति।
एप्रिल् मासस्य प्रथमे दिने एवेयं घटना। येमन् देशास्य अल् मुक्काल सागरमुखात् दुबाय् नगरं प्रति गच्‍छती आसीत् नौका। कर्मकराः मुम्बैवासिनः भवन्ति।

कोलम्बिया राष्ट्रे प्रलयेन मृत्पातेन च २५४ जीवहानिः।
मोकोवा> ( कोलम्बिया) दक्षिण कोलम्बियायां अतिवृष्ट्या जातेन बृहता मृत्पातेन न्यूनातिन्यूनं २५४ जनाः मृताः। २२० जनाः अप्रत्यक्षाः,२०२ क्षतबाधिताः च अभवन्।
कोलम्बियन् नगरे मोकोवायां मृत्पातेन गृहाः सेतवः यानानि च अप्रत्यक्षाः अभवन्। कानिचन क्षेत्राणि अपि नष्टानि। रक्षाप्रवर्तनानि त्वरितगत्या प्रचलन्ति। शुक्रवासरे रात्रौ अतिशक्ता वृष्टिः अभवत्। अत एव मृत्पातः अभवदिति अधिकारिणः अवदन्।