OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 22, 2017

मदिरानिरोधानन्तरं बीहाराय दशसहस्रकोटि लाभः, आराष्ट्रं निरोधः अपेक्षते - नितीष्कुमारः। 
पाला [केरळम] >बीहारराज्ये सम्पूर्णमदिरानिरोधेन प्रारम्भे पञ्चसहस्रकोटिरूप्यकाणां नष्टम्  अभूदपि दशसहस्रकोटिरूप्यकाणां लाभः प्राप्त इति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्।
     सम्पूर्णमदिरानिरोधव्यवस्थापनेन सर्वकाराणां आर्थिकनष्टं भविष्यतीति वादः व्यर्थ इति आर्थिकावलोकनेन तेन समर्थीकृतम्। अतः भारते सर्वत्र सम्पूर्णमदिरानिरोधः प्रतिष्ठापनीयः इति तेन अपेक्षितम्।
   गतदिने केरले भरणङ्ङानं प्रदेशे केरला कातलिक् बिषप् कौण्सिल् संस्थायाः मदिराविद्धसमित्याः राज्यस्तरीयमेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् नितीष् वर्यः।
   मदिरानिरोधानन्तरं बीहारे महत् सामाजिकपरिवर्तनं सञ्जातम् अपराधकृत्यानां यानदुर्घटनानां संख्या न्यूनीभूता। हत्या तु प्रतिशतं एकविंशतेः न्यूनता जाता। अन्येषां न्यूनीकृतापराधानाम् अवलोकनमपि तेन कृतम्।
    बीहारे सम्पूर्णमदिरानिरोधनं संस्थाप्य एकसंवत्सरः अतीतः। एतावदाभ्यन्तरे राज्ये क्षीर-वस्त्र-गृहोपकरण-भोज्यादीनां विक्रयः वर्धितः। अतः केरले अपि सम्पूर्णमदिरानिरोधनं व्यवस्थापनीयमिति नितीष्कुमारेण आवेदितम्।

महाभारतसम्बन्धिन्याः कैरल्याख्यायिकायाः चलच्चित्ररूपान्तरं, सहस्रकोटिरूप्यकाणां व्ययः, मोहन्लालः भीमसेनः। 
कोच्ची> व्यासभारतमवलम्ब्य विख्यातकैरलीसाहित्यकारेण एम् टि वासुदेवन् नायर् महाभागेन विरचिता 'रण्टामूष़म्' नामिका प्रसिद्धा आख्यायिका महाभारतम् इतिनाम्ना चलच्चित्ररूपेण निर्मीयते। प्रमुखः प्रवासी वणिक् श्रीमान् बि आर् षेट्टि  अस्य चित्रस्य निर्माता। भारते इतःपर्यन्तं निर्मितेषु चलनचित्रेषु बृहत्तमं धनव्ययात्मकं चित्रं भविष्यति "महाभारतम्"! सहस्रकोटि रूप्यकाण्येव अस्य दृश्याद्भुतस्य व्ययः इति प्रतिक्षन्ते।
    रण्टामूष़े मुख्यकथापात्रत्वेन वर्तमानं भीमसेनं कैरल्याः महानटः मोहन्लालः अवतारयति। दृश्यकथारचनां आख्यायिकाकर्ता तथा च स्वयं दृश्यकथानिपुणः एम् टि वासुदेवन् नायरः एव करिष्यति विख्यातः घोषणानिदेशकः वि ए श्रीकुमार् मेनोन् अस्यापि दृश्यभाष्यस्य निर्देशकत्वं विधास्यति।
    इदंप्रथमतया एव महाभारतस्य कथा तस्याः एव व्याप्त्या चलच्चित्ररूपमापाद्यते। अत एव अस्य चित्रस्य भागद्वयं कल्प्यते।  प्रथमभागस्य चित्रीकरणं आगामिनि संवत्सरस्य सेप्टम्बर् मासे समारभ्य २०२०तमे संवत्सरे प्रकाशयिष्यते। तदनन्तरं नवति दिनाभ्यन्तरे एव द्वितीयो भागो पि प्रदर्शनाय सिद्धः भविष्यति। मलयालं , हिन्दी , आङ्गलेयः , तमिल् , तेलुगु भाषासु अपि चित्रीकरणं भविष्यति।