OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 20, 2017

अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया परिवर्तितानि; तर्क:  कलुषित:।।
नवदिल्ली>अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया एकपक्षीयमत्या परिवर्तितानि । टिबटीयस्य आत्मीयाचार्यस्य दलैलामस्य अरुणाचलसन्दर्शनं प्रतिषिद्ध्यैव चैना एवं करोतीति स्पष्टं कारणम् । चीनाभाषानामानि एतेषां स्थानानां दत्तानि ।अरुणाचलप्रदेशोपरि चैनया  अधिकारमतं कालाकालै: उन्नीयते । नवदिनात्मकसन्दर्शनं समाप्य दलैलामस्य प्रतिगमनात्परमेव नामान्तरीकरणम् ।एप्रिल् ४ त: नवदिनात्मकमासीत् तस्य अरुणाचलसन्दर्शनम्   अस्मिन् विषये चैनाया: प्रतिषेधस्वर: अनेन स्फुरति । टिबटेनसहितप्रदेश: भारतेन अनधिकृतरीत्या स्ववशं स्थापित: इति तेषां न्यायवादश्च। प्रदेशोपरि परमाधिकार: अस्माकमिति भारतं बोधयितुमेव नामान्तरीकरणंमिति चैनाया: औद्योगिकमाध्यमेन विज्ञापितम् ।तर्कभूमौ दलैलामस्य प्रवेशनं निषिद्धमिति चैऩया बहुवारं ज्ञापितं च । दक्षिणटिबट् इति अरुणाचलम् आह्वयति चैना । चैनाया: औद्योगिकभूमानचित्रे इमे प्रदेशा:  दक्षिणटिबटस्य भागरूपेण कल्पिताश्च ।

  गंगासंरक्षणाय नूतन पद्धत्या यु. पि. -मुख्यमन्त्री योगी आदित्यनाथ:
लख्नो >आङ्गलशासनकालादारभ्य गंगानद्यां राशिरूपेण एकत्रीभूतानि विषमालिन्यानि अपसारणीया नि इति समस्याम् एव सः स्वीकरोति। गंगा तीरे प्रवर्तमानानि चर्मयन्त्रागाराणि  विषमालिन्यानि अपसारणीयानि इति आह्वानम् एव सः स्वीकरोति। गंगातीरे प्रवर्तमानानि चर्मयन्त्रागाराणि विना विलंबम् अन्यत्र स्थापनाय प्रर्वतनानां प्रारम्भः अभवत्। यन्त्रागारेभ्यः उचितस्थलानि द्रष्टुम् हरितट्रिब्यूणल् संस्थां विनियोजयति स्म च। किन्तु अखिलेष्सर्वकारः अस्याः पद्धतेः विरोधम् अकरोत्।