OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 13, 2017

जि एस् टि- ७०% उत्पन्नानां मूल्यम् न्यूनीभवति|
नवदेहली > वस्तूनां सार्वजनिकरूपेण सेवनकरः भविष्यति इत्यनेन प्रतिशतं सप्तति (७०%) वस्तूनां सेवनकरेषु न्यूनता भविष्यति। फेनकं, दन्तफेनकं इत्यादीनां नित्योपयोगवस्तूनां मूल्ये प्रतिशतं अष्टादशतः अष्टाविंशतिपर्यन्तं न्यूनता भविष्यति -(१८% -२८%)। प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टाविंशतिः इति चत्वारः श्रेणिषु एव करः निर्णीतम् अस्ति। जुलाय् मासादारभ्य नूतनं मूल्यप्रकारं  प्रबलं भविष्यति।

कुलभूषणस्य वधदण्डनम्।
द्वादश  पाकिस्थान पौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यवीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरेधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।