OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 21, 2017

V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं  केन्द्रमन्त्रिमण्डलेन निर्णीतम्।
     राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
    "एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।

 व्याजधनम्-  पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।
१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।


श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः  के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।
 
   संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |