OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 20, 2017

ग्रीन्लाण्ड् द्वीपे बृहत् छिद्रम्। वैज्ञानिकानां पूर्वसूचना।
नासा>विश्वस्य बृहत्तमस्य द्वीपस्य ग्रीन्लाण्डस्य हिमावरणेषु दीर्घं छिद्रम् दृष्टम्। द्वीपस्य प्रधाने भागे पीट्टरमेन् हिमान्यां सञ्जातस्य छिद्रस्य चित्राणि नासा बहिः प्रैषयत्। सामान्यतया हिमान्याः पार्श्वेषु छिद्राणि दृश्यन्ते।किन्तु पीट्टरमेन् हिमान्याः मध्यभागे एव छिद्रम् अभवत्। अस्य छिद्रस्य कारणमन्विष्य वैज्ञानिकाः आकुलाः भवन्ति।
 हिमान्याः पूर्वे पार्श्वे पूर्वागतम् एकं छिद्रं शन्नैः मध्यभागं चलदस्ति। एतौ द्वौ छिद्रौ मिलति चेत् तत्कारणेन जायमानः पारिस्थितिकपरिणामः भीकरमेव भविष्यति।
 इदानीं भीत्याः आवश्यकता नास्तीति वैज्ञानिकाः वदन्ति। द्वयोः छिद्रयोः मेलनस्य अवकाशः  अपि इदानीं नास्ति।
१०१० तमे २०१२ तमे च पीट्टरमेन् हिमानीतः बृहत् हिमखण्डानि विच्छिद्य पतितानि आसन्। २०१० आगस्तमासे पतितस्य हिमखण्डस्य मानहट्टन् नगरस्य द्विगुणाकारम् आसीत्। तत् यु एस् कोण्ग्रस् सभायामपि चर्चाविषयं जातम्।