OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 10, 2017

प्रोफ. एम् अच्युतः दिवंगतः।
कोच्ची> केरळे नवीननिरूपणसाहित्यस्य शक्तः प्रमुखश्च वक्ता प्रोफ. एम् अच्युतः [८७] दिवंगतः। ज्वरबाधया सः आतुरालयं प्रविष्टः आसीत्। रविवासरे अपराह्ने त्रिवादने अन्त्यमभवत्।
      कैरल्याः निरूपण - विमर्शसाहित्य मण्डले नवपथं प्रकाशयन् तत्र अनिषेध्यं स्थानं प्राप्तः अध्यापकश्रेष्ठ आसीत् प्रोफ. एम् अच्युतः। पाश्चात्य साहित्यविमर्शे अगाघपण्डितः सः ग्रीक् साहित्यादारभ्य आधुनिकमार्क्सियन् साहित्यपर्यन्तं निरूपणशैल्या प्रपठ्य अगाधं ज्ञानमार्जितवान्। प्रथमज्ञानपीठपुरस्कारजेतुः जि शङ्करक्कुरुप्प् वर्यस्य जामाता सः  आख्यायिकासाहित्ये [नोवल्] अतीवतत्परः आसीत्।
     पाश्चात्यसाहित्यदर्शनं ,नोवल् प्रश्नङ्ङलुं पठनङ्ङलुं, कवितयुं कालवुं , समन्वयं , चेरुकथा इन्नले इन्न् इत्यादयः साहित्यविमर्श पठनमण्डलेषु प्रचुरप्रचारमाप्ताः ग्रन्थतल्लजाः सन्ति।