OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 18, 2017

शुक्रग्रहस्यापि अपरः।


पृथिवीतः २१९ प्रकाशवर्षस्य दूरे शुक्रसमानमेकं ग्रहं गवेषकैः पर्यवेषितम्। वर्णन्यूनमेकं नक्षत्रं भ्रमणं कुर्वन्नस्ति एषलः अपरः। सूर्यस्य पञ्चसु एकं व्यासवन्तं केप्लर्-१६४९ नामधेयं नक्षत्रं एतत् भ्रमणं करोति। नवैः दिनैः एतत् ग्रहं एकवारं मातृनक्षत्रं भ्रमति इति गवेषकैः निरीक्षितम्।

सूर्यापेक्षया न्यूनप्रकाशवत् भवति केप्लर्-१६४९। नवीनं ग्रहं केप्लर-१६४९बी इति नामधेयं दत्तम्। पृथिवीसमानानां ग्रहाणां पर्यवेषणे अस्ति महदी श्रद्धा।किन्तु शुक्रसमानानां ग्रहाणां पर्यवेषणमपि प्राधान्यमर्हतीति गवेषकया इलीसा क्विन्टानया अवोचत्।


 मलप्पुरे यू डि एफ् दलस्य उज्वलविजयः।
मलप्पुरम् > केरले मलप्पुरं लोकसभामण्डले प्रवृत्ते उपनिर्वाचने इन्ड्यन् नेषणल् कोण्ग्रस् दलस्य नेतृत्वे विद्यमानस्य यू डि एफ् दलस्य मुस्लीं लीग् स्थानाशी पि के कुञ्ञालिक्कुट्टी उज्वलविजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षसंघस्य [एल् डि एफ्] एम् पि  फैसल् इत्यस्मात् त्रयोविंशत्यधिक एकसप्ततिसहस्रोत्तर एकलक्षं मतदानानि अधिकतया प्राप्तवान्। मलप्पुरं लोकसभामण्डले विद्यमानेषु सप्तसु नियमसभामण्डलेषु अपि यूडिएफ् दलस्य अग्रगामित्वं विद्यते।

आत्मघात्याक्रमणं - सिरियायां मरणानि १२६ अभवन्।
डमास्कस् > सिरियादेशे अलप्पोनगरे शनिवासरे दुरापन्ने आत्मघातिबोम्बाक्रमणे मरणसंख्या १२६ अभवत्। शताधिकाः जनाः व्रणिताः। मृतेषु ६८संख्याकाः बालकाः भवन्ति।
    विमतनियन्त्रितनगरस्थामलप्पुरे यू डि एफ् दलस्य उज्वलविजयः। न् जनान् सर्वकारनियन्त्रितप्रदेशं नीयमानः वाहनव्यूहः आक्रमणविधेयः अभवत्। स्फोटकवस्तुसम्बद्धं ट्रक् यानं स्थगितं वाहनव्यूहं प्रति घट्टनं कारितमासीत्। प्रदेशस्थं पेट्रोल् तैलकेन्द्रमपि अग्निबाधितम् इत्यतः एव मृत्युसंख्या वर्धिता।
    इरान् तुर्की खत्तर् इत्येतेषां माध्यस्थे  सरियासर्वकारः विमतैः सह कृतं समयमनुसृत्य आभ्यन्तरयुद्धकलुषितप्रदेशेभ्यः जनान् निष्कासयितुमारब्धम्।


 पाक्किस्थान् नागरिकाणां दृढनियन्त्रणम्। चिकित्सा वीसा अपि न दास्यतीति भारतम्।
नवदेहली>पाक्किस्थानेन मृत्युदण्डनाय निर्णीताय पूर्व भारत नाविक कमाण्डर कुलभूषण जादवस्य मोचनस्य भागत्वेन पाक्किस्थान नागरिकाणां कृते भारतेन वीसा नियन्त्रणम् अकारयत्। चिकित्सा वीसा अपि न दास्यतीति निर्णयम्।
भारतस्य पूर्व नाविकसेना कार्यकर्त्रा कुलभूषण जादवः चारप्रवृत्तिः अकरोत् तस्य अभिज्ञानानि सन्ति इति पाक्किस्थानेन उक्तम्। कार्यमिदं रेखाभिः सह ऐक्यराष्ट्रसभायां समर्पयितुम् पाक्किस्थानः श्रमम् आरभत।
तदानीं कुलभूषण जादवाय नियमसहायम् अवुवदनीयमिति भारतस्य आवश्यकतां पाक्किस्थानेन चतुर्दशवारमपि न स्वीचकार।