OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 24, 2017

संस्कृतभाषापठने वर्तमानकालीना सुविधा न निषिद्धव्या - संस्कृताध्यापक फेडरेषन्।
तृश्शिवपेरूर्>केरळे वर्तमानकालीनायां शैक्षिकप्रणाल्यां मलयालभाषाशिक्षणं ओर्डिनन्स् द्वारा अवश्यंकारिते सन्दर्भे प्रथमभाषारूपेण संस्कृतम् अरबी उर्दु भाषाशिक्षणं कर्तुं छात्राणां वर्तमानकालीना  सुविधा अनुवर्तनीया इति केरळस्य संस्कृताध्यापकानां संघटनया संस्कृताध्यापक फेडरेषन् संस्थया अभियाचितम्।
   कैरळीशिक्षणं समूलं तिरस्कुर्वन्तः आङ्गलमाध्यमविद्यालयान् उद्दिश्य सर्वकारेण विज्ञापितम् आदेशम् उपयुज्य कैश्चन न्यूनपक्षभाषाः विरुध्य प्रकाशिताः प्रस्तावाः न आशास्याः अपि तु भाषाप्रेमिषु छात्रेषु अस्वस्थजनकाश्च  इति संस्थायाः राज्यस्तरीयसमित्या निर्णीता।
       कैरळीमाध्यमेनैव चरित्र शास्र गणित विषयान् अध्यापनं कुर्वत्सु ओरियन्टल् विद्यालयेषु नूतनादेशमनुसृत्य संस्कृतभाषापठनं तिरस्क्रियमाणं प्रवर्तनम् उपेक्षणीयमिति च समित्या निर्दिष्टम्।
    राज्याध्यक्षस्य वेणु चोव्वल्लूर् वर्यस्य आध्यक्ष्ये आयोजितं सम्मेलनं संस्थायाः सचिवप्रमुखेन पि जि अजित्प्रसादेन समुद्घाटितम्। सङ्घटना धुरन्धराः पद्मनाभः गुरुवायूर्, सुरेशः, रविकुमारः, मधुसूदनः, जयदेवः इत्येते भाषणं कृतवन्तः। राज्यसचिवः सि पि सनल् चन्द्रः स्वागतं अजयकुमारः कृतज्ञतां च प्रकाशितवन्तौ।