OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 27, 2017

दिल्ली-साहित्य-अक्कादम् संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम:।

नव दिल्ली> एप्रिल् मासस्य चतुर्विंशे दिवसे सोमवासरे नवदिल्लीस्थे साहित्य अकादम्या: सभागारे साहित्यमञ्च इति कार्यक्रमस्यान्तर्गतं संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम: समनुष्ठित:। कार्यक्रमोSयं सायं सार्धपञ्चवादनतः अष्टवादनपर्यन्तं प्राचलत्। अस्मिन् अतिविशिष्टे संस्कृतरचनापाठकार्यक्रमे श्रीयुवराजभट्टराई, श्रीऋषिराजपाठक:, सुश्रीकौशलपंवारश्चेति संस्कृतस्य कवि-त्रयी काव्यपाठाय समाहूता आसीत्। कार्यक्रमस्य संचालनं साहित्यमञ्चस्य संयोजकेन श्रीकुमार-अनुपममहोदयेन कृतम्। काव्यकारेण श्रीयुवराजभट्टराई वर्येण आरम्भिक प्रस्तुतौ 'धृतविग्रह एव शिवोSसि सखे!' इति शीर्षकीया कविता तोटक छन्दसा स्वर-लय-ताल-पूर्वकं रसिकश्रोतृवृन्दस्य पुरत: प्रस्तूय श्रोतारो मन्त्रमुग्धीकृता:। तत्रैव भट्टराईमहोदयेन आपरैका तोटकछन्दसि एव ग्रथिता काव्यचिन्तनपरा सुमधुरा कविता'न भविष्यति वा किमियं कविता' इति संश्राव्य सदनं विमुग्धीकृतम्, ततश्च ऋषिराजपाठकेन 'वसुधा सुप्रभातम्' 'सुन्दरी सा' चेति कविताद्वयी सदनं पुरास्तात् परिवेष्य जनानां चेतांसि रञ्जितानि। पुनश्च कौशलपंवार महाभागया *भंगी महिला* इति शीर्षकीया पश्चवर्तिजनानामभ्युत्थानचिन्तनयुता समाजिकबोधप्रदा कविता प्रस्तूय जनमनांसि आह्लादितानि। तदनु पद्मश्रीसम्मानभाजनीभूतेन डॉ. रामाकांतशुक्लवर्येण सर्वेषां कवीनां प्रस्तुतकाव्येषु नैजी सूक्ष्मदृष्टियुता समीक्षाSपि सम्प्रस्तुता। अन्ते च कार्यक्रम संयोजकस्य कुमारअनुपमस्य धन्यवादसमर्पणेन साकं कार्यक्रमोSयमवसित:।