OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 10, 2017

मलाला ऐक्यराष्ट्रसभायाः शान्तिदूती।
इस्लामबाद् > चतुर्दशाधिक द्विसहस्रतमसंवत्सरे विश्वशान्त्यर्थं नोबेल् पुरस्कारेेण समादृता मलाला यूसफ् सायी नामिका पाकिस्थानीयबालिका ऐक्यराष्ट्रसभायाः शान्तिदूतिकारूपेण नियुक्ता। सभायाः सचिवाध्यक्षेण अन्टोणियो गुट्टरस् वर्येण प्रख्यापितो यं वृत्तान्तः। ऐक्यराष्ट्रसभायाः चरिते न्यूनतमवयस्का शान्तिदूती भवति मलाला।
    आविश्वं बालिकानां शैक्षिकप्रोत्साहनाय प्रयत्नं कुर्वन्ती मलाला तालिबानस्य वधोद्यमात् रक्षां प्राप्य इदानीं  ब्रिट्टन् राष्ट्रम्  अधिवसति।

 अमेरिकायाः उन्नतस्थानयोः द्वौ भारतवंशजौ।
वाषिङ्टण् > अमेरिका राष्ट्रस्य अत्युच्च स्थानयोः द्वौ भारतीयौ चितौ। राष्ट्रपतिना डोणाल्ड् ट्रम्पेन एतदर्थं निदेशः दत्तः। इन्फर्मेशन् आन्ट् रगुलेट्टरी अफयेर्स् कार्यश्य निदेशकत्वेन  नियमिरावुः तथा इन्टलक्ट्वल् एन्फोर्स्मेन्टस्य संयोजक-रूपेण विशाल् अमीन् च ट्रम्पेन चितौ। एतयो: नियुक्ति:  सेनट् संविधानेन अङ्गीकरणीया।

जोर्ज्  डब्लियू बुषस्य शासनकाले वैट्हौस्मध्ये उन्नत स्थानयोः विराजमानौ आस्ताम् एतौ। अमीनः इदानीं जनप्रतिनिधिसभायां नियमआयोगस्य अध्यक्षः भवति। नियोमि रावु: जोर्ज् मेसण् विश्वविद्यालये वरिष्ठाध्यापकः च भवति।