OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 28, 2017

कृष्णाङ्गारः अनधिकृतविक्रयणम्। सी बी ऐ संस्थया पूर्व निदेशकं प्रति  आरोपितापराधित्वेन प्रक्रिया आरब्धा।
नवदेहली>कृष्णाङ्गार खनीनां अनियमरीत्या विक्रयणं जातमित्यागतस्य भ्रष्टाचारस्य  अन्वेषणे रञ्जित् सिहः स्वकीयस्य कर्तव्यस्य दुरुपयोगं कृतवान्। तस्मिन् विषये पूर्वतनस्य सी बी ऐ निदेशकस्योपरि अपराधारोपणं पञ्चीकृत्य अधिकान्वेषणम् आरब्धम्।
प्रशान्त भूषणस्य नेतृत्वे प्रवर्तमानया कोमण् कोस् इति संस्थया रञ्जित् सिहं प्रति अन्वेषणाय निर्देशम् अकरोत्। आरोपणविधेयैः जनैः सह मेलनमकरोदित्यासीत् प्रथमम् आरोपणम्। प्रथमदृष्ट्या रञ्जित् सिहः अधिकारस्य दुर्विनियोगम् अकरोदिति विशिष्ट न्यायालयेन निरीक्षितम्।