OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 30, 2017

श्री शङ्कराचार्य जयन्ति महोत्सवः समारब्धः। 
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiTbtQJcmxuWIJMlunelEWK7JE3vGmjIqC97bmSPmZRueqbAX5CND3NI2T4y8dCVHP_Baa3L5bEQ7u1d7itnzJcgUCJGgHThVONAj2_UOq47dXsG77S9Iu17fma3ogKhB5oaxKvbwBfRHzK/s1600/Shankaracharya-Jayanti-1.jpegकालटी > आदि शङ्करस्य जन्मस्थानम् इति प्रथितां कालट्यां शङ्करजयन्ति महोत्सवः समारब्धः। विभिन्न क्षेत्रेषु विभिन्न कार्यक्रमैः दिनमिदं संपन्नं भविष्यति। आचार्यस्य जन्मक्षेत्रे विद्यमाने शृङ्गेरिमठे विशेष पूजाविधयः सन्ति। समीपस्थे श्रीकृष्ण देवालये कनकधारा महोत्सवः प्रचलति। कनकामलकानि विधिवत् मन्त्रोच्चारणेन पावितानि भक्तेषु लब्धुं सन्दर्भः अत्र अस्ति। श्रीरामकृष्ण अद्वैताश्रमे आचार्यस्य स्मृतिः वर्तते। रविवासरः तथापि श्रीशङ्कराचार्य विश्वविद्यालयस्य अद्य प्रवृत्तिदिनमेव इति सह-कुलपतिना धर्मम राज अटाटेन उक्तम्। विश्व विद्यालये अपि विविधकार्यक्रमैः आचार्यस्य जन्मदिनोत्सवः आघुष्यते।