OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 8, 2017

विश्वे धूमपानमरणं वर्घितम्।
पारीस्> धूमपत्रोत्पन्नोपयोगिनां संख्या बहुषु राष्ट्रेषु १९९० आरभ्य न्यूनीभूयते तथापि धूमपानेन मृत्युवशमुपगतानां संख्या वर्घितेति गवेषकाः। धूमपत्रोत्पन्न निर्माणसंस्थाः नूतनविपणीः अन्विष्यमाणाः सन्ति। तादृशे सन्दर्भे इयं दुरवस्था वर्धिष्यतेति दलान्सेट् नामकेन समाचारपत्रेण प्रसिद्धीकृते शोधप्रबन्धे स्पष्टीक्रियते।
       विश्वे संभूयमानेषु दशसु मरणेषु एकं धूमपानेनैव सम्भवति। अस्य प्रतिशतं पञ्चाशत् परिमितं चीना भारत यू एस् रष्या राष्ट्रेषु वर्तते। कानिचन राष्ट्राणि अधिककरैः अवबोधवत्करणादिप्रवर्तनैश्च धूमपानोपयोगे गण्या न्यूनता कारिता । ब्रसील् राष्ट्रेण अस्मिन् विषये अधिकलाभः प्राप्तः। तत्र धूमपानिनां पुरुषाणां संख्या पञ्चविंशतिसंवत्सरेभ्यः प्रतिशतं २९ परिमितात् प्रतिशतं १२परिमितमित् न्यूनीकृतम्।
भारवाहनान्दोलनं निराकृतम्। 
कोष़िक्कोट् >दक्षिणभारते भारवाहनस्वामिभिः दशदिनानि यावत् कृतं कर्मविरामान्दोलनं निराकृतम्। योगक्षेम नियन्त्रण-विकसन संस्थायाः [Insurance Regulatory & Development Authority] अधिकृतैः सह भारवाहनस्वामिसंघटनानां प्रतिनिधिभिः कृतां चर्चामनुसृत्यैव अयं निर्णयः।  निगमस्य अधिकमूल्यवर्धनं प्रतिशतं ५० इत्यस्मात् प्रतिशतं २७ इति न्यूनीकरिष्यतीति सम्मतिः लब्धा।