OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 27, 2017

राष्ट्रविरुद्धसन्देशाः जन्मू काश्मीरे सामूहिक माध्यमानां निरोधः।
नव दिल्ली> संघर्षावस्थायाः अनुबन्धतया जन्मूकाश्मीरे सामूहिक माध्यमानां निरोधः ।  फेस बुक् , वाट्स् आप्, ट्विट्र्, स्कैप् प्रभृतीनां अन्तर्जाल सुविधाम् उपयुज्य राष्ट्रविरुद्धतया सन्देशानि प्रसारयन्ति इति निरीक्ष्य एव निरोधः। एप्रिल्मासस्य नवदश ( १९) दिनाङ्कात् आरभ्य निरोधः प्रबलः अभवत् । अन्तर्जाल-सेवनदादृणां कृते एनमधिकृत्य निर्देशः दत्तः I विद्यार्थिनः त्रिशताधिकं  वाट्स् आप् सङ्घाः राष्ट्रविरुद्ध सन्देशस्य प्रचरणस्य कारणेन निरुद्धाः। समूहमाध्यमेषु प्रचलिताः चलनमुद्रखण्डानि सङ्घर्षकारणानि भविष्यन्ति इति निरीक्ष्यते ।

सौदिराजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः।
रियाद्>सौदिभरणाधिकारिणः सल्मान्-राजस्य पुत्रः खालिद्  बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः। मन्त्रिसभायां विविधप्रविश्यासु च समग्रतया शासनस्तरे पुन: क्रमीकरणमपि अनेन सह अकरोत्। अब्दुल्ल बिन् फैसल् बिन् तुर्किराजकुमारस्य स्थाने एव एषः नियुक्तः। सौदिव्योमसेनायां वैमानिक: खालिद् राजकुमार: ऐ एस् विरुद्धसख्यसेनायाः दौत्येषु भागं गृहीतवानासीत्। डाणाल्ड् ट्रंपस्य अधिकार प्राप्त्यनन्तरम् अमेरिका-सौदि राष्ट्रयोः संबन्धः शक्तः अभवत् इति अनया नियुक्त्या निर्णीयते। सिरियायाः, इरान्स्य विषयेषु ट्रंपस्य सौदिराष्ट्रं प्रति आनुकूल्यमेव राष्ट्रद्वयोः संबन्धस्य दृढीकरणकारणम्।
विविधमन्त्रिणः राज्यपालान् उपराज्यपालांश्च आपकृत्य तत्स्थाने अन्ये नियुक्ताः। खालिद् अल् अराज्, आदिल् अल् तुरैफ् मुहम्मद् सुवैलि इत्येषां मन्त्रिणां पदवीः क्रमशः नगराचारविभागस्य सांस्कारिकवार्तावितरणविभागस्य टेलिकों विभागस्य च भ्रष्टाचारारोपैः नष्टाः। आरोपा न्वेषणार्थं मन्त्रालयसमितिरपि रूपीकृता।
तैलमूल्यह्रासत्वात् नयनिश्चयप्रधानभूते ऊर्जविभागे अब्दुल् असीस् बिन् सल्मान् राजकुमारः नूतनमन्त्रित्वेन नियुक्तः। हायिल्-अल्बाहा- उत्तरसीमा प्रविश्यानां राज्यपालानामेव एतत् स्थानान्तरीकरणम्। राष्ट्रे नूतनदेशीयसुरक्षाकेन्द्रस्य   प्रारम्भाय अपि आज्ञा अस्ति। देशीयसुरक्षा- उपदेष्टारम् अविहाय बहवः अन्ये कर्मकराः अपि स्थानान्तरीकृताः। व्ययनियन्त्रणपद्धत्या गतवर्षे  न्यूनीकृतानाम् नगराचारसेवकानां सैनिककर्मचारिणां च विविधानुमतवेतनानि च पुनरङ्गीकृतानि॥