OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 10, 2017

वन्दे मातरगीते जीवितसमस्यायां संजातायां युवकः न्यायालयम् उपगतः।
     
 चेन्नै>बंकिंचन्द्रचाट्टर्जिना वन्दे मातरगीतम् विरचय्य शतकद्वयं पूर्णमभवत्। किन्तु रचितं कस्यां भाषायामिति स्पष्टीकर्तुं मद्रासोच्चन्यायालयम् उपगतवान् के. वीरमणि इति नामधेयः शिक्षाशास्त्रिच्छात्रः। युवकेन पृष्टे संशये साधूत्तरं ज्ञातुं न्यायालयेन राज्यस्तरीयमहान्यायवादी नियुक्तः।
       चिरकालप्रतीक्षमाणः सर्वकारीयोद्योगः अनेन प्रश्नेनैव नष्टः सञ्जातः। परीक्षायोग्यतायै नवत्यंकेषु आवश्यकेषु सत्सु वन्दे मातरगीतभाषा केति  प्रश्नस्य बंगाली इतिअसाधूत्तरलेखनेन नवाशीत्यंकाः एव लब्धाः आसन्। परन्तु तेन पठितेषु पुस्तकेषु बंगाली इत्युत्तरे सति मूल्यनिर्णयदोषत्वात् तस्य उद्योगावसरः नष्टः अभवदिति न्यायालयं गतवान्। बंगालीसंस्कृतभाषाभ्याम् एव गीतमिदं विरचितमिति वादिनः न्यायवादिनः वादे सति आदौ संस्कृतेन विरचितं पश्तात् बंगालीभाषायाम् अनूदितमिति सर्वकारपक्षन्यायवादी न्यायालयम् व्यज्ञापयत्।  अन्ते साधूत्तरं ज्ञातुं न्यायालयः राज्यस्तरीयमहान्यायवादिनं नियोजयति स्म। 
साधूत्तरं जूलैमासस्य एकादशदिनांकात् पूर्वं ज्ञापयितुं निरदिशत्।  द्वाभ्यां भाषायां रचितमिति प्रायेण सर्वेषु पुस्तकेषु दृश्यते। आनन्दमठमिति आख्यायिकायाः भागः एवेयं कविता संस्कृतभाषया बंगालीलिप्यां लिखितेति सामान्येन उच्यते।