OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 15, 2017

भारतीयाः अतीव अलसाः इति अन्वेषण फलम्।
नवदेहली> विश्वे अलसतमाः जनाः भारते वर्तन्ते इति  नवीनं अध्ययनफलं। सानफोर्ट् विश्वविद्यालयेन कृतमस्ति एतत् परिवेषणम्। पद्भ्यां गन्तव्यदूराय अपि भूरिणः भारतीयाः यानं आश्रियन्ते। षट्चत्वारिंशत् राष्ट्रेषु कृते अध्ययने भारतस्य नवत्रिंशत् स्थानमस्ति। भारते एकः एकस्मिन् दिने केवलं सप्तनवत्यधिक-द्विस्तोत्तरचतुसहस्रं  (४२९७) पादमात्रम् अस्ति।
सप्तलक्षजनेषु अध्ययनं कृतम्। मोबैल्आप् द्वारा विवरशेखरणं जातम्। अध्ययने चैनाजनाः अलसतारहिताः इति अवगतम्। तस्मिन्नपि होङ्कोङ्जनाः अलसतारहिताः इति अध्ययने वदति। अशीत्यधिक-अष्टशतोत्तर-षट्सहस्र-पाद पर्यन्तं (६८८०) चैना जनैः एकदिनं पद्भ्यां गच्छन्ति।