OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 18, 2017

वेङ्कय्या नायिडु एन् डि ए पक्षस्य उपराष्ट्रपतिस्थानाशी।
नवदिल्ली > केन्द्रमन्त्री एम् वेङ्कय्या नायिडु एन् डि ए दलस्य उपराष्ट्रपतिस्थानाशिरूपेण प्रख्यापितः। नरेन्द्रमोदिनः नेतृत्वे सम्पन्ने भा ज पा दलस्य उन्नताधिकारसमित्यामेव अयं निर्णयः जातः। राज्यसभाङ्गत्वेन वर्तमानः वेङ्कय्या अधुना केन्द्रमन्त्रिसभायां नगरविकसनकार्यमन्त्री अस्ति।
     विपक्षदलानां स्थानाशिरूपेण भूतपूर्वराज्यपालः महात्मागान्धिनः पौत्रश्च गोपालकृष्णगान्धी पूर्वमेव चित आसीत्। आगस्ट् पञ्चमे दिने उपराष्ट्रपतिनिर्वाचनं भविष्यति। नामनिर्देशपत्रिकासमर्पणाय अन्तिमं दिनं जूलाई १८।