OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 14, 2017

शत्रुः इदानीं हस्तग्राह्यः। चैनां लक्ष्यीकृत्य मिसैल् निर्माणे भारतम्।
वाषिड्टण् > सीमाक्षेत्रेषु चैनायाः भीषाः वर्धमाने सन्दर्भे तां भीषां अवरोद्धुं मिसैल् तन्त्रेण भारतम्। दक्षणभारतस्य विक्षेपणस्थानेभ्यः चैनां पूर्णतया परिधौ आनेतुं सहायकं मिसैल् निर्माणे अस्ति। यु एस् तः प्रसिद्धीकृतं आफ्टर मिट्नैट् मध्ये प्रसिद्धीकृते लेखे आणवकुशलैः एवं व्यक्तीकृतम्। भारतस्य आणवप्रतिरोधः प्रधानतया पाक्किस्थानं केन्द्रीकृत्य रूपीकृतमपि वर्तमानायां अवस्थायां चैनां लक्ष्यीकृत्य आणवसंविधानस्य आधुनीकरणप्रयत्ने एवास्ति भारतम् इति लेखनद्वारा व्यक्तीकरोति।
१५० तः २०० पर्यन्तं अणुवायुधानां निर्माणाय आवश्यकं प्लूट्टोणियं सकाशे अस्ति चेदपि भारतेन केवलं १२०-१३० अणुवायुधानां निर्माणमेव कृतं स्यादिति इति इण्टियन् न्यूक्लियर् फोर्सस् इति लेखने  वदति। एतत् सर्वं चैनां लक्ष्यीकृत्य अस्ति। इदानीं सप्त आणवसंविधानानां निर्माणं भारतेन क्रियते। द्वौ विमानं , पृथ्वीतः विक्षेपणयोग्यानि चत्वारि बालिस्टिक् मिसैल् शस्त्राणि , समुद्रात् विक्षेप्तुं योग्यं एकं बालिस्टिक् मिसैल् शस्त्रं च भारतेन निर्मीयते।