OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 3, 2017

अभयार्थिनः शिबिराणि अग्निबाधितानि। द्वाै मृतौ।
बेय् रूट्> लबनन् देशास्य बेक्का सानुप्रदेशे सिरियायाः अभयार्थिनः शिबिरे एव अग्निदुर्घटना जाता।  द्वौ मृतौ। षट् जनाः अग्निना व्रणिताः। एते समीपस्थे आतुरालये प्रविष्टाः।  रविवासरे एव दुरन्तः जातः।

इतोप्यधिकाः जनाः मृत्युवशं गन्तुं सन्दर्भः भविष्यति इति रोयिट्टरेण आवेदितम्। लबनराष्ट्रस्य राजधानीतः बेय्रुट्टतः एकघण्टा दैर्घ्यमस्ति क्वाब् एलियास् नगरं प्रति। तस्मिन् नगरपरिसरे आसीत् अभयार्थिनः बासशिबिराणि। शताधिकानि शिबिराणि अग्निबाधिधानि।  अत्र द्वयाधिकशतम् (१०२) कुटुम्बाः उषितवन्तः इति युणैट्टट् नेषन् है कम्मीषन् फोर् रेफ्यूजीस् अङ्गः डयानास्लीमान् महाभागा अवदत्।  आभ्यन्तरथुद्धस्य कारणेन पलायितेषु  सिरियाजनेषु दशलक्षं जनाः लबन् देशे सन्ति इति गण्यते।⁠⁠⁠⁠