OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 29, 2017

नवास् षरीफः स्थानभ्रष्टः।
इस्लामबाद् > पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्। षरीफस्य निजीयार्थिकसम्पादनमधिकृत्य  पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्।
    १९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम्  इत्यासीत् आक्षेपः।