OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 31, 2017

पि यु चित्रा विश्वस्पर्धात: बहिष्कृता।
कोच्ची > विविश्वकुशलस्पर्धायां भागंकर्तुं चित्रायाः अभिलाषः विनष्टः। केरलस्य कायिकतारः भवति एषा। विश्वस्तरीय स्पर्धायां भागं स्वीकर्तुं चित्रायै अनुज्ञालब्ध्यर्थं भारत-कायिक क्रीडादलेन दत्तम् आवेदनं आन्ताराष्ट्र क्रीडासंधेन निरस्तम्। भुवनेश्वरे आयोजिते एष्यायाः कुशलस्पर्धायां सुवर्णपतकेन जिता आसीत् चित्रा। मण्डलस्थस्य विजयिभ्यः साक्षात् प्रवेशः इत्यासीत् मानदण्डः। किन्तु चित्रायाः प्रवेशविषये मानदण्डस्य पालनं नासीत् इति इदानीन्तनसमस्या। उच्चन्यायालयस्य आदेशः चित्रयै अनुकूलः आसीत्। किन्तु कालः अतीतः इत्यनेन स्पर्धायां प्रवेश: लब्धः।