OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 13, 2017

गोपालकृष्णगान्धी संयुक्तविपक्षदलानां उपराष्ट्रपति स्थानाशी।
नवदिल्ली>महात्मागान्धिनः पौत्रः  वङ्गराज्यस्य भूतपूर्वः राज्यपालश्च गोपालकृष्णगान्धी विपक्षदलानां पूर्णसहयोगेन उपराष्ट्रपतिस्थानाशी भविष्यति। बीहारराज्यस्य शासनदलस्य जे डि यू दलस्यापि सहयोगः तस्मै लभते।
    महात्मागान्धिनः पुत्रस्य देवदासगान्धिनः सि राजगोपालाचारिवर्यस्य सुतायाः लक्ष्म्याश्च पुत्रः गोपालकृष्णगान्धी १९४५तमे संवत्सरे जनिमलभत। भारतीय प्रशासन सेवायां [ऐ ए एस्] तमिल् नाट् विभागस्य अङ्गः आसीदयं नैकानि उन्नतस्थानानि अलङ्कृतवान्। श्रीलङ्का, दक्षिणाफ्रिक्का, नोर्वे इत्येतेषु राष्ट्रेषु भारतस्थानपतिरासीत्। यदा के आर् नारायणः राष्ट्रपतिरासीत् तदा तस्य सचिव आसीत्। स्वतन्त्रचिन्तकः अयं विद्वन्मण्डले/पि श्रद्धेयः अस्ति।
    उपराष्ट्रपतिनिर्वाचनं ओगस्ट् पञ्चमदिनाङ्के भविष्यति।