OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 9, 2017

जी एस् टी मूल्यभेदं रेखाकरणं न कृतं चेत् कारागृहं धनदण्डः च।
           
नवदेहली>उत्पन्नसेवन करं ( जी एस् टी) आगमनानन्तरं आगतं मूल्यभेदं उत्पन्नानाम्  उपरि रेखाकरणं अनिवार्यता करणीयमिति केन्द्रसर्वकारः। मूल्यभेदस्य रेखया प्रदर्शनं न कृतम् चेत् एकलक्षं रूप्यकाणि धनदण्डः  अथवा कारागृहं वा लभ्येत इति केन्द्र उपभोक्तृकार्यमन्त्री रांविलास्  पास्वानः पूर्वसूचनां दत्तवान्। इदानीं तावत् समाहृतान् उत्पन्नान् मूल्यभेदं रेखीकृत्य सेप्तंबर मासाभ्यन्तरे व्ययीकरणीयः।
            जी एस् टी आगमेन केषाञ्चन उत्पन्नानां मूल्यं अवर्धयत् केषाञ्चन उत्पन्नानां मूल्यं न्यूनं च अजायत। अस्यां अवस्थायां समाहृतानां उत्पन्नानाम् उपरि मूल्यभेदं रेखाकरणं अनिवार्यता करणीयमिति उत्पादन-संस्थाः सर्वकारेण निर्दिष्टम्। निर्देशस्य प्रथमलंघने पादलक्षं रूप्यकाणां दण्डः द्वितीये, लंघने अर्धलक्षरूप्यकाणां दण्डः, पुनः लंघनाय एकलक्षरूपेयकाणां दण्डः  अथवा एकवर्षस्य कारागारवासः लभ्येत इति केन्द्रमन्द्रिणा उक्तम्।  जी एस् टी संबन्धीनि निवेदनानि परिगणितुम् उपभोक्तृकार्यमन्त्रालयस्य उपसमितिः रूपीकृता इति पास्वानः व्यक्तीकृतवान्।