OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 9, 2017

।।कः भारतीयः? ।। 
गुरु पूर्णिमायाः शुभाशयाः
डा. राधाकृष्णः स्वतन्त्रभारतस्य द्वीतीयः राष्ट्रपतिः आसीत्।  सः विश्वविख्यातः दार्शनिकः अपि आसीत्। सः दार्शनिकविषयं तथा सरलतया बोधयति स्म यत् श्रोतारः आश्चर्यं अनुभवन्ति स्म। स्वतन्त्रतायाः पूर्वं एकदा डा. राधाकृष्णः प्रीतिभोजनस्य कार्यक्रमं गतवान्। तस्मिन् प्रीतिभोजने एकः आङ्ग्लः जनः अपि आसीत्। तत्र अवसरे आङ्ग्लजनः उक्तवान् वयम् आङ्ग्लजनाः  ईश्वरस्य प्रियाः स्मः। अस्माकं निर्माणम् ईश्वरः यत्नेन स्नेहेन च कृतवान्। अतः वयं गौरवर्णाः स्मः।  डा.राधाकृष्णः एतां गर्वोक्तिं श्रुत्वा अहसत्।  जनान् सम्बोधयन् उक्तवान् – “मित्रणि ! एकदा ईश्वरः रोटिकां पाचयितुम् इच्छां कृतवान्।  यदा रोटिकां कर्तुंम् उपाविशत् तदा प्रथमा रोटका किञ्चत् अपक्वा जाता।  परिणामतः अङ्ग्लेयजनानाम् उत्पत्तिः अभवत्।  द्वितीया रोटिका अधिकं परिपक्वा जाता । अतः नीग्रोजातीयाणाम् उत्पत्तिः अभवत्। तृतीयां रोटिकाम् ईश्वरः कृतवान् तदा न अधिकं न च न्यूनम्, समानरूपोण परिपक्वा जाता।  फलस्वरूपेण भारतीयजनानां जन्म अभवत्।  "डा. राधाकृष्णद्वारा भारतीयत्वस्य सरलां दार्शनिकीं परिभाषां श्रुत्वा आङ्ग्लजनः सलज्जः नतमस्तकः अभवत् ।
     सर्वे जनाः उन्मुक्तभावेन अहसन् ।
                                      ------अज्ञातकर्तृकः