OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 24, 2017

गोवा विधान सभायां  स्वामीब्रह्मानन्दमहाविद्यालयस्य अभिनन्दनम्                                   
       पनजी > स्वामी ब्रह्मानन्द संस्कृत प्रबोधिनीद्वारा संचालितं गोवा विद्यापीठेन मान्यतया अलंकृतः स्वामी ब्रह्मानन्द महाविद्यालयः जुलै मासे २०१७-१८अस्मिन् शैक्षणिक वर्षे श्रीक्षेत्र तपोभूमि कुण्डई गोवा इत्यत्र प्रारभत।सर्वकारस्य प्रथम वार्षिक नियोजन दिवसे गोवा विधानसभायां विधायकः मान्यः राजेश पाटणेकर महोदयेन संस्कृत महाविद्यालयस्य अभिनन्दन विषयः प्रस्तुतम्। भाजपा,कोंग्रेस, मगो,गोवा फॉरवर्ड इति सर्वेषां पक्षाणां विधायकाः ,पू सद्गुरु ब्रह्मेशानंदाचार्य स्वामिनः योग, संस्कृत, धार्मिक, शैक्षणिक, सामाजिक इत्यादि दिव्य कार्यस्य उल्लेखं कृतवन्तः।  विशेषण ते उक्तवन्तः संस्कृत, संस्कृति सरक्षणार्थं स्वामिनः कार्य स्तुत्यार्हः अस्ति।संस्कृत महाविद्यालयस्य कृते सम्पूर्ण तया सर्वकार्यस्य सहयोगः भविष्यति।  ४०पाठशाला माध्यमेन पूर्वं प्राथमिक स्तरे गोवाप्रान्ते  संस्थायाः कार्यं आसीत्।  अस्मिन् वर्षे संस्कृत छात्राणां पदवी अध्ययनार्थं महाविद्यालय प्रारभ्यते इति गोवराज्यस्य कृते गौरवप्रदं विषयः , इति सर्वे विधायकाः, मंत्रिणः अवदन्। प्रामुख्यैः मुख्यमंत्री महोदयः अवदत्, सर्वकार्यस्य सम्पूर्णतया सहकार्य तथा च  एतदृशे विषये सर्वक़ारस्य आर्थिक योगदानं अपि प्राप्स्यति।