OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 9, 2017

मलालायाः विद्यालयीयशिक्षा समाप्ता। 
लण्टन् > बालिकानां शिक्षायै प्रयतिता इत्यतः गोलिकाप्रहारेण पीडितायाः पाकिस्थानबालिकायाः मलाला यूसफ् सायी नामिकायाः विद्यालयीयशिक्षाकालः समाप्तः।
   लण्टने बर्मिङ्हाम् प्रविश्यातः विद्यालयीयशिक्षां पूर्तीकृता मलाला ट्विटर् मध्ये एवं लिखितवती - "अद्य विद्यालये मम अन्तिमं दिनं, ट्विटर्मध्ये प्रथमं दिनं च।मम विद्यालयीयशैक्षिकदिनीनि मधुरकषाय सम्मिश्रितानि आसन्। लोके लक्षशः बालिकाः विद्यालयसैभाग्यम् अलभमानाः  वर्तमानाः सन्ति। तेषां कृते मम आन्दोलनम् अनुवर्तिष्यते।"
   पाकिस्थानस्य स्तात् अधित्यकायां बालिकानां शिक्षायै प्रवर्तिता इत्यतः तालिबान् भीकरैः मलाला भुषुण्डिप्रयोगविधेया अभवत्।