OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 5, 2017

इस्रयेले मोदिने हृद्यं स्वीकरणम्। 
टेल् अवीव् >भारतप्रधानमन्त्री नरेन्द्रमोदी इस्रयेल् देशं प्राप्तवान्। इस्रयेल् सन्दर्शनं कुर्वन् प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।ह्यः सायं राजधानीं टेल् अवीव् प्राप्ताय मोदिने आतिथ्याचारसंहिताम् [protocol] अतिक्रम्य इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुवर्यः टेल् अवीव् विमाननिलयं प्रत्यक्षं सम्प्रप्य हार्द्दिकं स्वीकरणं समर्पितवान्।
    भारतस्य देशीयगानस्य अनुचरणेनैव स्वीकरणं कृतम्। "इस्रयेल् सन्दर्शनं कुर्वन् प्रथमप्रधानमन्त्री भवान् अस्माकं यथातथः सुहृत् भवति।  वयं भारते स्निह्यामः" मोदिने स्वागतं व्याहरन् नेतन्याहुः उक्तवान्।
   अमेरिक्काराष्ट्रपतये मार्पापावर्याय च समानं स्वीकरणमेव मोदिने अपि दातुं सज्जीकृतमिति पूर्वमेव इस्रयेल् अधिकारिभिः स्पष्टीकृतमासीत्।