OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 2, 2017

जी एस् टी सर्वेषां विजयः।
नवदेहली>सर्दार वल्लभाई पट्टेलेन कृतस्य भारतस्य एकीकरणमिव कृतं आर्थिकसंयोजनं भवति जी एस् टी इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। जी एस् टी सरला करग्रहणप्रक्रिया भवतीति सः अयोजयत्। लोकसभायाः केन्द्रप्रकोष्ठे आयोजिते जी एस् टी प्रख्यापन सम्मेलने भाषयन्नासीत् सः। जी एस् टी कृते good and simple tax इति निर्वचनं दत्वा आसीत् प्रधानमन्त्रिणः भाषणम्। विभिन्नानां करग्रहणरीतीनां क्लिष्टताः दोषाः च दूरीकर्तुं जी एस् टी प्रभवति इति सः उक्तवान्। नवीनस्य करग्रहणरीतेः  गुणफलानि गुणभोक्तृभ्यः विक्रेतारः दास्यन्तीति प्रतीक्षते। जी एस् टी न केवलं करपरिष्कारः अपि तु सहवर्त्तित्वात्मक जनाधिपत्यस्य निदर्शनमिति सः अवदत्।

जी एस् टी सर्वेषां विजयः भवति। अस्य प्रख्यापनाय लोकसभायाः केन्द्रप्रकोष्ठं अतीव उचितं स्थानमिति सः अवदत्। आरम्भकेलेशानि शीघ्रं परिहरणीयानि। तत्रैव विजयः इति राष्ट्रपतिना प्रणाब मुखर्जी महोदयेन अस्मारयत्।
जी एस् टी इत्यस्य आनयनेन जनाधिपत्यस्य पक्वता विवेकं च व्यक्तीकृते। अस्मिन् भागभाक् भवितुं वैय्यक्तिकं तोषं अनुभवामि। शासनरेखा भेदगति पत्रं प्रथमतया लोकसभायां मया एव प्रस्तुतीकृतमिति राष्ट्रपतिः अस्मारयत्।