OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 22, 2017

वनिता भुवनचषकक्रिक्कट् स्पर्धा - भारतम् अन्तिमचक्रे। 
डेर्बी (इङ्गन्ट्) >  हर्मन् प्रीत् कौर् नामिकायाः कन्दुकताडनप्रतिभाविलासेन इदानींतनवरिष्ठदलम् आस्ट्रेलियां ३६ धावनाङ्कैः पराजित्य भारतेन वनितानां भुवनचषकक्रिक्कट् स्पर्धायाः अन्तिमचक्रं प्रविष्टम्। रविवासरे आतिथेयकम् इङ्लण्ट् राष्ट्रं प्रति अन्तिमस्पर्धा भविष्यति।
     वृष्टिकारणेन ४२ ओवर् परिमितकृतायां स्पर्धायां ११५ कन्दुकानि अभिमुखीकृत्य वज्रनिर्घोषसमानैः कन्दुकताडनैः १७१ धावनाङ्कानि प्राप्तवत्याः पञ्चाबीयाः हर्मन् प्रीत् 'गौर्याः' क्रीडावीर्येण भारतं २८१ धावनाङ्कानि प्राप्तवत्। दलनेत्री मिताली राजः (३६), दीप्ती शर्मा ‍(२५) च कन्दुकताडने अभिमानार्हं सहयोगं कृतवत्यौ।   ओसीस् दलस्य प्रतिताडनवेलायां विजयलक्ष्यात् ३६ धावनाङ्कानां विदूरे तेषां क्रीडा समाप्ता।