OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 12, 2017

'कुसाट्' संस्थायाः अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station)राष्ट्राय समर्पितम्।
कोच्ची > यथातथं वातावरणप्रवचनं सुकरं कर्तुम् अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station) केन्द्रवैज्ञानिक साङ्केतिक विभागस्य मन्त्रिणा डो. हर्षवर्धनेन राष्ट्राय समर्पितम्। वातावरणव्यतियानं निगमयितुं तत् सुललितं यथासूक्ष्मं कर्तुं संविधानानि अत्र समायोजितानि।
    चक्रवातस्य आगमनं पूर्वमेव ज्ञातुं शक्यते। मेघानां सञ्चारमाधारीकृत्य वर्षस्य वातस्य च गतिं निर्णेतुं अनेन शक्यते।  उपग्रहस्य साहाय्यं विनैव रडार् केन्द्रस्य प्रवर्तनम्। पञ्चशतं (५००) किलोवाट्ट् शक्तियुक्तेन अनेन केन्द्रेण दक्षिणभारतराज्यानां पर्यावरणव्यतियानानि अभिज्ञातुं शक्यते।
* CUSAT कोच्ची वैज्ञानिक संकेतिक-विश्वविद्यालयः