OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 30, 2017

मुम्बै रयिल् निस्थाने अपघातः , मृतानां संख्या २२ ।
मुम्बै> महत्याः वृष्ट्याः पश्चात् मुम्बै समीपस्थे रयिल् निस्थाने जातेन जनसम्मर्देन मृतानां संख्या द्वाविंशतिः अभवत्। उपत्रिंशत् जनाः क्षतजाः च। मुम्बैस्मीपे एल्फिन्स्टण् रयिल् निस्थानस्य उपरितल मार्गपुले एव दुर्घटना जाता। प्रभाते पादोन एकादश (10.45) वादने आसीत् अपघातः। वृष्ट्यनन्तरं यात्रिकाः अधिकतया उपरितलपन्थानम् आश्रिताः ।   भाराधिक्येन पथः पार्श्वतः अपघातशब्दं श्रुत्वा चकिताः पलायिताः इत्यनेन केचन सम्मर्देन अतःपतिताः।
रियिल् निस्तानस्य समीपे कार्यालयाः संस्थाः च बहवः सन्ति इत्यनेन प्रदेशः सदा जनबहुलाः भवन्ति।