OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 29, 2017

चतुर्थे एकदिने भारतस्य पराजयः। 
         बेङ्गलुरु > एकदिनस्पर्धासु दशानुस्यूतविजयः इति श्रेष्ठत्वम् आस्ट्रेलियां प्रति चतुर्थे एकदिने भारतस्य विनष्टमभवत्। चिन्नस्वामि क्रीडाङ्कणे प्रवृत्तायां स्पर्धायां भारतम् एकविंशति धावनाङ्कैः आस्ट्रेलिया दलेन पराजितम्। 
         आस्ट्रेलिया दलस्य उपनायकः तथा ताडनप्रोद्घाटकः डेविड् वार्णर् नामकस्य शतकेन (१२४) सह पञ्च कन्दुकताडकानां विनष्टे ओसीस् दलं ३३४ धावनाङ्कानि प्राप्तवत्। परन्तु भारतस्य धावनाङ्कप्राप्तिः अष्ट ताडकानां विनष्टे ३१३ धावनाङ्केषु परिमिता अभवत्।  ११९ कन्दुकान् स्वीकृत्य १२ चतुष्कैः चत्वारि षट्कैः च सह १२४ धावनाङ्कान् प्राप्तः वार्णर् वरिष्ठक्रीडकपदं सम्प्राप्तवान्।