OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 19, 2017

उत्तरकोरियाम् उत्पाटयिष्यतीति ट्रम्पस्य विभीषिका। 
युनैटड् नेषन्स् > वर्तमानं मनोभावम् अपाकर्तुम्  न सिद्धा तर्हि उत्तरकोरियां पूर्णतया विध्वंसयिष्यतीति अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः ऐक्यराष्ट्रसभायां विभीषिकां कृतवान्। आणवपरीक्षणसहितेभ्यः प्रतिलोमप्रवर्तनेभ्यः उत्तरकोरियाराष्ट्रं प्रतिनिवर्तेत।
    तस्य राष्ट्रस्य नेता किम् जोङ् उन् अपि ट्रम्पेन विमृष्टः। 'रोक्कट् मनुष्यः' आत्माहुतियत्नः एव करोतीति ट्रम्पः उपहसितवान्। यदि शत्रुतात्मकं मनोभावं उपेक्षितुं किं जोङ् उन् न यतते तर्हि लोकराष्ट्रैः सः पृथक्करणणीयः इति ट्रम्पेण उक्तम्।