OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 28, 2017

वैदिक उष़ुन्नालिल् अद्य भारतं प्राप्नोति। 
नवदिल्ली > यमन्मध्ये भीकरेभ्यः मोचितः क्रिस्तीयवैदिकः फादर् उष़ुन्नालिल् वर्यः अद्य स्वजन्मदेशं प्राप्नोति। प्रभाते ७.४० वादने दिल्ली विमानपत्तनं प्राप्यमानं वैदिकं केन्द्रविनोदसञ्चारसहमन्त्री अल्फोण्स् कण्णन्तानं, लोकसभासामाजिकौ के सि वेणुगोपालः, जोस् के माणी, वैदिकश्रेष्ठः आर्च् बिषप् मार् कुर्याक्कोस् भरणिक्कुलङ्ङरा इत्येते मिलित्वा स्वीकरिष्यन्ति।
    ततः प्रधानमन्त्री नरेन्द्रमोदी, विदेशकार्यमन्त्रिणी सुषमास्वराजः इत्येतौ सह मेलनं कृत्वा फा.उषुन्नालः सायं ६.३०वादने दिल्लीस्थे सेक्रड् हार्ट् देवालये प्रार्थनायां भागं करिष्यति। शुक्रवासरे प्रभाते सः बङ्गुरुं प्राप्स्यति।
     रविवासरे कोच्चीं प्राप्नुवन् सः सायं जन्मग्रामं रामपुरं गमिष्यति।