OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 30, 2017

षार्जा कारागृहात् १४९ भारतीयाः मोचिताः। 
      षार्जा> आर्थिकापराधमभिव्याप्य लघुषु अपराधेषु दण्डनमनभूयमानाः केरलीयसहिताः नवचत्वारिंशदधिकशतं भारतीयाः षार्जा कारागृहेभ्यः मोचिताः। एषु २० आरभ्य ६८ पर्यन्तवयस्काः अन्तर्भवन्ति। 
                 षार्जाशासनाधिकारिणः शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमीवर्यस्य  केरलसन्दर्शनवेलायां एतदधिकृत्य  प्रख्यापनमासीत्। आर्थिकापराधेषु अन्तर्भूतैः दीयमानाः दण्डशुल्काः सुल्त्तान् वर्येण समर्पयिष्यन्ते इत्यपि उद्घुष्टमासीत्। अत एव एतेषां मोचनं क्षिप्रसाध्यमकरोत्।