OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 11, 2017

सङ्घषान् समापयित्वा काश्मीरं पुनः स्वर्गं कारयिष्ये - राज् नाथ सिंहः
                  अनन्तनाग्> काश्मीरस्य सानुप्रदेशे शान्तिः भवतु इति विचिन्त्यमानेः सह यर्चां कर्तुं उद्युक्तोस्ति इति केन्द्राभ्यन्तरमन्त्री राजनाथसिंहः। सङ्घर्षेभ्यः काश्मीरं जवेन मोचयिष्ये इति उक्तवान् राजनाथसिंहः। अस्य विरोधेन केनापि प्रतिबन्धं क्रियेत तथापि काश्मीरं स्वर्गं करिष्ये इति उक्तवान्। चतुर्दिनस्य सन्दर्शनाय काश्मीरम् आगतवानासीत् सः।

                  काश्मीरस्य स्थितिविगतिमधिकृत्य विरुद्धाभिमतः अस्तिचेत् स्वाभिमतः अधिकारिणे बोधितव्यः इति राजनाथसिंहः अवदत्। चर्चायै आगन्तु सर्वे इति निमन्त्रयामि। निवेदनानि सधैर्यं दीयताम्। मनः उद्घाट्य चर्चां कर्तुं उद्युक्तोस्मि। सङ्घर्षान् सर्वान् समाप्य काश्मीरं स्वर्गं करिष्यामः। विश्वस्य अन्यशक्तयः अस्य बाधा न भवति - अनन्तनागस्य आरक्षकानां मिथः सम्भाषणं कुर्वन्नासीत् आभ्यन्तरमन्त्री।