OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 12, 2017

इर्म नाम वातः फ्लोरिडां प्रविष्टः

      फ्लोरिडा>रीबिय द्वीपेपु महान्तं नाशं वितीर्य वर्षाः भूपातः च कृत्वा इर्म नाम चक्रवातः फ्लोरिडां प्राप्तवान्। मियमि प्रदेशस्य मध्यभागोषु अपि वृष्टिः अनुवर्तते। प्रतिखण्डां पञ्च दशाधिकद्विशातं किलोमीटर् मितशीघ्रेण एव इर्म वातः वाति इति पर्यावरण निरीक्षकाः वदन्ति। फ्लोरिडायां विद्युत् वितरणं स्थगितम् अस्ति। क्यूबादेशस्य उत्तर भागात् आगमनवेलायां चक्रवातस्य शक्तिः न्यूना आसीत्| चेदपि पुनरपि शक्तियुक्तः अभवत्। फ्लोरिडायां जनजीवितस्य अवस्था भीषायां भवति। पञ्चषष्ठिसंख्याकाः जनाः प्रदेशात् सुरक्षित स्थानं प्रतिप्रेषिताः इति च फ्लोरिडा राज्यपालः रिक् स्कोट् अवदत् । सुरक्षा प्रवर्तनानि अनुवर्तिष्यते इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेन उक्तम्। आपत्काल व्यवस्थापि प्रख्यपिता अस्ति।
       तस्मिन् समये भारतीयानां सुरक्षायैः सर्वविधकार्याणि सज्जीकृतानि इति यू एस् राष्ट्रस्य भारतराजदूतेन सन्तोष् झा नामकेन उक्तम्।