OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 18, 2017

केरले अतिशक्ता वर्षा, सर्वत्र जाग्रता निर्देशः। 
कोच्ची > केरले सर्वेषु जनपदेषु अतिवृष्टिः अनुवर्तते। अहोरात्रम् अनुवर्तितया वृष्ट्या  जनजीवनं दुस्सहमभवत्। कण्णूर् जनपदे मुहम्मद् कुञ्ञिनामकः कश्चन मृतः। एरणाकुलं कोतमङ्गलं प्रदेशे  कुल्यातरणं कुर्वन् बैजुनामकः जलप्रवाहे पतित्वा अप्रत्यक्षः अभवत्।
      पर्वतप्रान्तजनपदेषु भूच्छेदादिषु प्रकृतिक्षोभेषु बहूनि नाशनष्टान्यभवन्। पालक्काट् जनपदे अट्टप्पाटीप्रदेशे भूच्छेदेन एकं भवनं पूर्णतया , चत्वारि भवनानि भागिकतया च नाशमुपगतानि। कोट्टयं जनपदे चिङ्ङवनं प्रदेशे रेल्लोहमार्गं प्रति मृत्पातेन रेल् गतागतं होराणि यावत् स्थगितम्।
   आलप्पुष़ा, एरणाकुलं तिरुवनन्तपुरं जनपदेषु अवनतप्रदेशाः जले निमग्नाः अभवन्।
   त्रीणि दिनान्यपि वृष्टिः अनुवर्तिष्यते इति पर्यावरणनिरीक्षणविभागेनोक्तम्। आरबसमुद्रस्य पश्चिमतीरे रूपवत्कृतः न्यूनमर्दः तथा ओडीषा-उत्तर आन्ध्रा तीरयोः सञ्जातं अन्तरिक्षचक्रञ्च अतिवृष्टेः कारणमिति निरीक्षणकेन्द्रेण निगदितम्।