OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 16, 2017

केरळ-राज्यस्तरीय-संस्कृतदिनाघोषः अद्य वयनाट् जनपदे। 
कल्पट्टा > केरलस्य राज्यस्तरीयः संस्कृतदिनाघोषः अद्य वयनाट् जनपदे कल्पट्टा पुलियार्मलस्थे कृष्णगौडर् मण्डपे  विविधकार्यक्रमैः प्रचाल्यते।
     प्रभाते नववादने मानन्तवाटी पष़श्शिकुटीरात् आरभ्यमाणेन दीपशिखाप्रयाणेन दिनाघोषः समारभते। दशवादने कृष्णगौडर् मण्डपे आयोज्यमानायां उद्घाटनसभायां सार्वजनीनशैक्षिकविभागे संस्कृभाषायाः सविशेषाधिकारिणी डो. टि डि सुनीतीदेवी स्वागतभाषणं करोति। बत्तेरी विधानसभामण्डलस्य सामाजिकस्य ऐ सी बालकृष्णवर्यस्य अध्यक्षत्वे कल्पट्टा विधानसभासामाजिकः सि के शशीन्द्रः सभायाः उद्घाटनं निर्वक्ष्यति।
    सभामध्ये केरलस्य उन्नतशीर्षेषु संस्कृत-व्याकरणपण्डितेषु अन्यतमः, तथा च भूतपूर्वः संस्कृताध्यापकः, वयनाट् शैक्षिकजनपदस्य डि ई ओ पदं प्राप्य सेवनात् निवृत्तः , 'सम्प्रतिवार्ता'नामकान्तर्जालदैनंदिनसंस्कृतवार्तापत्रिकायाः रक्षाधिकारिषु अन्यतमः एन् के रामचन्द्रवर्यः मीनन्तवाटि सामाजिकेन ओ के केलुवर्येण समाद्रियते। केन्द्रसाहित्यअक्काडमीपुरस्कारजेता डो.एछ् आर् विश्वासः सम्मेलने$स्मिन् मुख्यभाषणं करोति।
      नैके जनप्रतिनिधयः आशंसामर्पयन्ति। संस्कृताध्यापकफेडरेषन् संघटनस्य राज्यस्तरीयसचिवमुख्यः पि जि  अजित् प्रसादप्रभृतयः अध्यापकसंघटनाप्रतिनिधयः तेषां  सान्निध्येन वेदिकामलङ्कुर्वन्ति।