OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 29, 2017

वृक्षस्य संरक्षणाय महिला वृक्षोपरि उषितवती
                 कालीफोर्णिया > वननशीकरणं विरुद्ध्य विशेषरीत्या प्रतिषेधः आचरिता जूलिया बट्टर् फ्लै हिल् नामिका महिला भवत्येषा। विशेषतया आन्दोलनानां आयोजनेन एषा श्रद्धास्पदा अभवत्। तस्याः त्रयोविंशत्यां वयसि एषा वृक्षसंरक्षण श्रमम् आरब्धम्।
अमेरिक्कराष्ट्रस्य दक्षिणभागे  'सेक्वय' नाम वृक्षाः अधिकतया आसन्। किन्तु व्यावसायिकावश्यकतया वृक्षाः च्छेदिताः। अनेन कारणोन परिस्थितिनाशः अभवत्। प्रकृति संरक्षकाः आन्दोलनमारब्धवन्तः। ते वृक्षस्य समीपे सुरक्षापालकवत् स्थातुं निश्चितवन्तः। 
                   इयं वनिता सहस्रसंवत्सरपुरातनं वृक्षस्य उपरि अशीत्यधिकशतं पादोन्नत्यां वृक्षशखायां वासमारभत। संवत्सरद्वयं यावत् अनुवर्तितः तस्याः समरः १९९९ दिसंबर् १८ समाप्य वृक्षात् अवतरिता।पसफिक् लुम्बर् नाम व्यवसायसंस्था आसीत् वृक्षच्छेदने व्यापृता। तया बहुवारं जूलियां वृक्षात् पातयितुं  श्रमं कृतम्। अन्ते जूलियायाः विशेषसमरेण पसफिक् लुम्बर् संस्थाया वृक्षच्छेदनात् प्रतिनिवृत्ता।