OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 30, 2017

सम्प्रतिवार्ता पत्रिकायै श्रृङ्गेरि शङ्कराचार्याणाम् अनुग्रहवर्षः!
         कालटी> अस्माकं सम्प्रति वार्ता नामिका इयं पत्रिका श्रृङ्गेरि मठाधिपतीनां श्रीमतां भारतीतीर्थस्वामिनाम् अनुग्रहेण अनुग्रहीता अभवत्। अधुना अनया पत्रिकया विद्यालयच्छात्रान् उपयुज्य प्रसारितं छात्रावार्ता वतारणम् अवगम्य परं तुष्टाः  आचार्यपादाः अस्मभ्यम् एकम् ऊरु-सङ्गणकयन्त्रं प्रदाय अधमर्णीकृतान् अस्मान् पुनः कर्मनिरतान् कारयामासुः। 
                 कालट्यां श्रृङ्गेरीमठस्य नवरात्रिसङ्गीतमण्डपे आयोजिते कार्यक्रमे कालटीमठस्य प्रबन्धकेन प्रोफसर् सुब्रह्मण्य अय्यर् वर्येण अभिनवशङ्कराचार्यस्य आदेशानुसारेण सङ्गणकयन्त्रं प्रदत्तम्। सम्प्रतिवार्तायाः मुख्यसम्पादकः अय्यम्पुष हरिकुमारः छात्रवार्तावतारकैः सकं अचार्यस्य सम्माननं स्वीकृतवान्। अस्मिन् आधुनिके युगे नवमाध्यमेषु अन्याभिः भाषाभिः सह स्वस्थानमलङ्कर्तुं संस्कृतभाषा सिद्धा भवति अपि च जनमानसेषु मधुरंसंवर्तितुं  बालकानां वार्तावतारण-कार्यक्रमेण प्रभवा च भवति  इत्येतत् अनेन प्रमाणीक्रियते इति सुब्रह्मण्यय्यर् वर्येण  प्रोक्तम्।
                प्रो. के पि बाबूदास्  अनुग्रहभाषणमकरोत्, सम्प्रतिवार्तायाः छात्र-वार्तावतारिका  कुमारी फात्तिमा मुण्डेत् वार्तावतारिकापदमारुह्य कथं स्वानुभवः इत्येतत् प्रकटितवती। सम्प्रतिवार्तायाः सम्पादकसमित्यङ्गौ ऐवर् काल रविकुमारः, श्रीमती पी रती च भाषणं कृतवन्तौ।