OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 3, 2017

कार् यानस्य धावनाय कृत्रिमं नगरं निर्मीय 'गूगिलः'
कालिफोर्णिय> स्वयं धावनं क्रियमाणं कार् यानं परीक्षितुं गूगिलः कृत्रिमनगरं निर्मितवान्। 'कालिफोर्णिय' मरुभूमौ कासिल् इति नामकं नगरं निर्मितम्। 'वेमो' संस्थायाः स्वयंचालक-यानमेव अत्र परीक्ष्यते। नगरे विद्यमान यानचालक सूचकानि गतागत नियन्त्रकाः अन्यवाहनानि च मार्गषु सज्जीकृतानि।  गूगिलस्य यन्त्रज्ञाः एतदर्थम् अहोरात्रं कठिनप्रयत्नं कुर्वन्तः सन्ति।

  शतं 'एक्कर्' पर्यन्तं विस्तृतं भवति कासिल् नगरम्। आधुनिकनगरस्य समानं प्रासाद समुच्चयानि अत्र नास्ति। चेदपि अधुनिकरीत्या मार्गश्रृंगलाबद्धं भवति इदं नगरम्। मार्गाः चतुष्पदाः, गतागत निर्देशसूचकानि, वाहन निस्थानानि, एकदिशयागमनमार्गः एवं बहुविध संविधानेन सुसज्जं भवति। पादचारिणः अपि मध्ये मध्ये पन्थानं अतितरति। एतदर्थं मनुष्याः नियुक्ताः सन्ति।