OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 10, 2017

गिरीष् कर्णाट् अभिव्याप्य १८ प्रमुखेभ्यः सुरक्षाव्यवस्था! 
                  बेंगलुरु > कर्णाटकराज्ये ज्ञानपीठपुरस्कारजेतारं गिरीष्कर्टाट् वर्यम् अभिव्याप्य  तत्रस्थेभ्यः प्रमुखेभ्यः अष्टादशभ्यः पुरोगमनसाहित्यकारेभ्यः सर्वकारेण तीव्रा सुरक्षाव्यवस्था समायोजिता! वरिष्ठमाध्यमप्रवर्तिकायाः गौरी लङ्केशवर्यायाः हत्यामनुबन्ध्य राज्यस्य दक्षतासंस्थया समर्पितस्य आवेदनपत्रस्य आधारे एवायं प्रक्रमः। पट्टिकायाम् अन्तर्भूतेषु बहुभूरिणां तीव्रहिन्दुसंघटनेभ्यः भीषा वर्तते। के एस् भगवान्, योगेष् मास्टर्, चेतना तीर्थहल्लि , के . मुरली सिद्धप्पा इत्यादयः लेखनकाराः सुरक्षापट्टिकायामन्तर्भवन्ति।