OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 12, 2017

रोहिङ्ग्यान् प्रतिप्रेषयितुं भारतस्य यत्नं विमर्श्य ऐक्यराष्ट्रसभा। 
जनीवा > रोहिङ्ग्यन् अभयार्थिजनान् म्यान्मर् राष्ट्रं प्रतिप्रेषयितुमुद्दिश्य भारतस्य प्रयत्नं विमर्शयन्ती ऐक्यसभायाः मनुष्याधिकारसमितिः। स्वकीये देशे रोहिङ्ग्यान् विरुध्य आक्रमणेषु प्रचलत्सु तान् प्रतिप्रेषयितुं भारतस्य प्रक्रमाः अपलपनीयाः इति यू एन् मनुष्याधिकारसमित्याः नेता सेय्द् राद् अल् हुसैन् वर्येणोक्तम्। मानवाधिकारसमित्याः उपवेशने भाषमाणः आसीत् सः।
    म्यान्मर् राष्ट्रे रोहिङ्ग्यान् विरुध्य प्रचाल्यमानाः अतिक्रमाः वंशीयनिष्कासनस्य उत्तमनिदर्शना  इति तेनोक्तम्।
     राखिन् प्रविश्यायां अतिक्रमेषु रूक्षेषु सञ्जातेषु उपत्रिलक्षं रोहिङ्ग्यान् वंशजाः बङ्लादेशं प्रति पलायिताः। तेषु बहुभूरिजनाः बङ्लादेशसीमायां स्थगिताः वर्तन्ते च। "भारते ४०,००० रोहिङ्ग्यन् अभयार्थिनः वर्तन्ते। तेषु १०,००० जनानां अभिज्ञानपत्रादीनि प्रमाणानि विद्यन्ते। अन्ताराष्ट्रनीतिमनुसृत्य भारतस्यापि उत्तरदायित्वमस्ति। म्यान्मरे तेषां विरुध्य कलापे जायमाने रोहिङ्ग्यान् अभयार्थिनः  बहिष्कर्तुं न शक्यते" सैद् अल् हुसैन् वर्येणोक्तम्।