OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 3, 2018

भारतीयाः भाषन्ते 19,500तः अधिकं  मातृभाषाः 
       भारतेषु 19,569 मातृभााः सन्ति इति जनसङ्ख्यागणना-विभागेन कृते अवलोकने स्पष्टीक्रियते। अस्मिन् ‍ 121 भाषाः 10,000 जनाः भाषन्ते। भारतसंविधानस्य अनुबपट्टिकायाम्  22 भाषाः अन्तर्भवन्ति। एतस्मात् एका वा भवति जनेषु प्रतिशतं 96.71 जनानां मातृभाषा। प्रतिशतं 3.29 जनाः पट्टिकातः बहिः विद्यमानाः भाषाः भाषन्ते। 2011 तमस्य  जनगणनायाः अवलोकनानुसारं भवति इदम् आवेदनम्।
       2001-तमस्य जनगणनानन्तरम् अन्यस्मिन् विभागे  (संविधानस्य पट्टिकायां नास्ति किन्तु 10,000 अधिकाः भाषन्ति) 100 भाषाः अासन्। 2011-तमे एषा  99 अभवत्। सिंते पार्सि भाषे च परित्यज्य  मावो भाषा स्वीकृता इत्येव व्यत्ययस्य कारणम्।  सिंते पार्सि भाषमाणानां संख्या 10,000-तः नयूनमभवत्। मावो भाषमाणानां सङ्ख्या 10,000 तः वर्धितम्।