OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 1, 2018

ताय्लान्ट् राष्ट्रे १२ छात्राः गह्वरे लग्नाः , आविश्वं प्रार्थनायाम्। 
       बाङ्कोक्क् > ताय्लान्ट् राष्ट्रे 'चियाङ् रायि' प्रविश्यायां  पादकन्दुकक्रीडकाः १२ विद्यालयीयछात्राः तेषां परिशीलकश्च तद्देशीये तां लुवाङ् नामके गह्वरे निपतिताः। ऊनषोडशवयस्कानां पादकन्दुकक्रीडादले वर्तमानाः ते अष्टदिनेभ्यः पूर्वम् अतिवृष्ट्या प्रस्तुते गह्वरे अभयं प्राप्तवन्तः आसन्। किन्तु अनुवर्तिते प्रकृतिविक्षोभे पङ्कैः मृत्पिण्डैश्च गुहामुखं पिहितमभवत्। 
      ताय् राष्ट्रस्य नाविकाः निमज्जनविदग्धाः, अमेरिक्कासैनिकसङ्घः, ब्रिट्टनतः गुहाविदग्धाश्च सप्ताहैकं यावत् रक्षाप्रवर्तने मग्नाः अपि आपतितान् अधिकृत्य कापि सूचना न लब्धा। दशकिलोमीटर् परिमिता दूरयुक्ता अस्ति गुहा।  ताय् निवासिनः , विद्यालयछात्राः, लोकवासिनश्च प्रार्थनानिरताः प्रतीक्षमाणाः वर्तन्ते।