OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 3, 2018

राष्ट्रस्य विविधभागेषु शुक्रवासरपर्यन्तं शक्ता वर्षा। 
      नवदिल्ली>  आगामि दिनेषु राष्ट्रस्य विविधभागेषु अतिवृष्टिः स्यात् इति राष्ट्रियवातावरण निरीक्षणकेन्द्रेण पूर्वसूचना प्रदत्ता। जम्मुकाश्मीरम्, तमिल् नाट् , असम्, गुजरात् इत्येतेषु राज्येषु शुक्रवासरपर्यन्तम् वर्षा स्यात् इति पूर्वसूचना।  छत्तीस् घट्, ओडीषा, असम्, मेघालयं, महाराष्ट्रं, सीमान्ध्रं, कर्णाटकं, केरलम् इत्यादि प्रदेशेषु गुरुवासरे शक्ता वृष्टिः स्यात् इति पूर्वसूचनायाम् अस्ति।
      संवत्सरेस्मिन् १७ दिनात् पूर्वं वृष्टिकालः समारव्धः इति वातावरणनिरीक्षणकेन्द्रेण उक्तम्। मासचतुष्टयस्य वृष्टिकालः जूण्मासस्य प्रथमदिनाङ्के अागत्य सेप्तम्बर् ३० तमे दिनाङ्के पर्यवस्यति साधारणतया। किन्तु अस्मिन् वर्षे मेय् मासस्य एकोनत्रिंशत् दिनाङ्गादारभ्य वर्षाकालः समारब्धः अासीत्।