OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 4, 2018

वैदेशिकाः संघशः प्रतिगच्छन्ति- सौदिराष्ट्रस्य विद्यालयाः प्रतिसन्धौ वर्तन्ते।
     रियादः> आश्रितशुल्कं स्वदेशीवत्करणं च प्रचाल्यानन्तरं वैदेशिककुटुम्बानां स्वदेशगमनेन सौदिराष्ट्रस्य निजीयविद्यालयाः प्रतिसन्धौ अपतन्। छात्राणां संख्यायां आपन्ना न्यूनता एव प्रतिसन्धेः कारणम्। इदानीं शतशः वैदेशिककुटुम्बाः प्रतिगन्तुम् उद्युक्ताः सन्ति। छात्राणां न्यूनतया शुल्कवर्धापनाय निर्बन्धिताः वयम्  इति निजीयविद्यालयस्य अधिपाः वदन्ति। आर्थिकक्लेशेन केचन विद्यालयाः  पिधानं कृतवन्तः इति जिद्दा चेंबर् ओफ् कोमेर्स् संस्थायाः अधः विद्यमानस्य विद्यालयस्य समित्यंगः डो. सुहैल् गुनम् अवदत्।